current location : Lyricf.com
/
Songs
/
शिक्षाष्टकं [Śikṣāṣṭakaḿ] [Russian translation]
शिक्षाष्टकं [Śikṣāṣṭakaḿ] [Russian translation]
turnover time:2024-07-07 19:17:45
शिक्षाष्टकं [Śikṣāṣṭakaḿ] [Russian translation]

(१)

चेतो-दर्पण-मार्जनम् भव-महा-दावाग्नि-निर्वापणं

श्रेयः-कैरव-चन्द्रिका-वितरणं विद्या-वधू-जीवनम्

आनन्दाम्बुधि-वर्धनं प्रति-पदं पूर्णामृतास्वादनं

सर्वात्म-स्नपनं परं विजयते श्री-कृष्ण-संकीर्तनम्

(२)

चेतो-दर्पण-मार्जनम् भव-महा-दावाग्नि-निर्वापणं

श्रेयः-कॆरव-चन्द्रिका-वितरणं विद्या-वधू-जीवनम्

आनन्दाम्बुधि-वर्धनं प्पति-पदं पूर्णामृतास्वादनं

सर्वात्म-स्नपनं परं विजयते श्री-कृषण-संकीर्तनम्

(३)

तृणाद् अपि सुनीचेन

तरोर् अपि सहीष्णुना

अमानिना मानदेन

कीर्तनीयः सदा हरिह्

(४)

न धनं न जनं न सुन्दरीं

कवितां वा जगद्-ईश कामये

मम जन्मनि जन्मनीश्वरे

भवताद् भक्तिर् अहैतुकी त्वयि

(५)

अयि नन्द-तनूज किंकरं

पतितं मां विषमे भवाम्बुधौ

कृपया तव पाद-पंकज-

स्थित-धूली-सदृशं विचिन्तय

(६)

नयनं गलद्-अश्रु-धारया

वदनं गद्गद-रुद्धया गिरा

पुलकैर् निचितं वपुः कदा

तव नाम-ग्रहणे भविष्यति

(७)

युगायितं निमेषेण

चक्षुषा प्रावृषायितम्

शून्यायितं जगत् सर्वं

गोविन्द-विरहेण मे

(८)

आश्लिष्य वा पाद-रतां पिनष्टु माम्

अदर्शनान् मर्म-हतां करोतु वा

यथा तथा वा विदधातु लम्पटो

मत्-प्राण-नाथस् तु स एव नापरह्

Comments
Welcome to Lyricf comments! Please keep conversations courteous and on-topic. To fosterproductive and respectful conversations, you may see comments from our Community Managers.
Sign up to post
Sort by
Show More Comments
Hindu Songs, Chants & Prayers
  • Languages:Sanskrit, Bengali
  • Genre:Religious
  • Wiki:http://en.wikipedia.org/wiki/Hinduism
Hindu Songs, Chants & Prayers
Latest update
Copyright 2023-2024 - www.lyricf.com All Rights Reserved